गुर्विणी

सुधाव्याख्या

‘गुरुस्त्रिलिङ्ग्यां महति दुर्जरालघुनोरपि’ (इति मेदिनी) । गुरुर्दुर्जरोऽलघुर्वा गर्भोऽस्त्यस्याः । व्रीह्यादीनिः (५.२.११६) । संज्ञापूर्वकत्वान्न गुणः (६.४.१४६) । यद्वा गर्वति । ‘गर्वेरत उच्च’ (उ० २.५४) इतीनन् । गौरादिः (४.१.४१) ॥