नूपुरः

सुधाव्याख्या

‘नुवनम्’ नूयते, वा । ‘णू स्तुतौ’ (तु० प० से०) । सम्पदादिः (वा० ३.३.१०८) । नुवि पुरति । ‘पुर अग्रगमने’ (तु० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । ‘मञ्जीरोऽस्त्री स नूपुरः’ इति रभसः ॥