सारसनम्

सुधाव्याख्या

सारमुत्कृष्टं सनमस्य । ‘षण सम्भक्तौ (भ्वा० प० से०) । घः (३.३.११८) । सहारसनेनाल्पशब्देन वा । ‘मेखलायां सारसनमुरस्त्रे च तनुत्रिणाम्’ इति दन्त्यादौ रभसः ॥ पञ्च ‘स्त्रीकटिभूषणस्य’ । ‘स्त्री’ इत्यविवक्षितम् । पुंस्कटिभूषणेऽति । -स्त्रीकट्यां वस्त्रग्रन्थने- इति स्वामी । –एका यष्टिर्भवेत्काञ्ची मेखला त्वष्ट यष्टिकाः । रसना षोडश ज्ञेयाः कलापः पञ्चविंशकः’ -इति भेदस्त्विह न विवक्षितः ॥