शृङ्खलः

सुधाव्याख्या

अथेति । पुंसां कट्यां चेत् काञ्ची । शृङ्गैः खलति । ‘खल सञ्चये’ (भ्वा० प० से०) । अच् (३.१.१३४) । पृषोदरादिः (६.३.१०९) । ‘शृङ्खलं पुंस्कटीकाञ्च्यां लोहरज्जौ च बन्धने’ (इति हैमः) ॥