पादाङ्गदम्

सुधाव्याख्या

पेति । पादस्याङ्गदमिव । यद्वा पाद एवाङ्गम् । पादाङ्गं द्यति, दायति, दयते वा । ‘दो अवखण्डने’ (दि० प० अ०) । ‘दैप् शोधने’ (भ्वा० प० अ०) । ‘देङ् पालने’ (भ्वा० आ० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः ॥