पारावतः

सुधाव्याख्या

पारेति । परं जीवमवति । पराच्छत्रोरहंकाराद्वा ज्ञानोपदेशेन । ‘अव रक्षणादौ (भ्वा० प० से०) । शतृप्रत्यय: (३.२.१२४) । ‘द्वितीया' (२.१.२४) ‘पञ्चमी' (२.१.३७) इति योगविभागात् समासः । परावतो दत्तात्रेयस्यायं गुरुः । ‘तस्येदम्' (४.३.१२०) इत्यण् ॥ ‘पारापतः' इति पाठे पारादप्यापतति प्रेम्णा । ‘पत्लृ गतौ' (भ्वा० प० से०) । अच् (३.१.१३४) । ‘पारावतश्च छेद्यश्व कपोतो रक्तलोचनः । पारापतः कलरवः' इति रभसः ॥


प्रक्रिया

धातुः -


अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु
अव् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अव् + शतृ - लटः शतृशानचावप्रथमासमानाधिकरणे 3.2.124
अव् + अत् - उपदेशेऽजनुनासिक इत् 1.3.2, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
पर + अम् + अवत् - द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः 2.1.24
पर + अवत् - सुपो धातुप्रातिपदिकयोः 2.4.71
परावत् - अकः सवर्णे दीर्घः 6.1.101
परावत् + इस् + अण् - तस्येदम् 4.3.120
परावत् + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
परावत् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पारावत - तद्धितेष्वचामादेः 7.2.117
पारावत + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पारावत + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पारावत + रु - ससजुषो रुः 8.2.66
पारावत + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पारावतः - खरवसानयोर्विसर्जनीयः 8.3.15