शूककीटः

सुधाव्याख्या

शूकयुक्तः कीटः। शाकपार्थिवादिः (वा० २.१.७८) ॥


प्रक्रिया

धातुः -


शूककीट - शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् (2.1.78) । वार्तिकम् ।
शूककीट + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शूककीट + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शूककीट + रु - ससजुषो रुः 8.2.66
शूककीट + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शूककीटः - खरवसानयोर्विसर्जनीयः 8.3.15