अलिः

सुधाव्याख्या

अलीति । अलतिदंशे समर्थो भवति । ‘अल भूषणादौ (भ्वा० प० से०) । ‘सर्वधातुभ्य इन्’ (उ० ४.११८) । ‘भृङ्गवृश्चिकयोरलिः' इति रभसः ॥ बाहुलकादिण् प्रत्यये दीर्घादिरपि । ‘वृश्चिको द्रुण आलिः स्यात्' इति बोपालितः ॥ नान्तोऽप्यस्ति अलमर्थोऽस्यास्ति । ‘व्रीह्यादित्वात्’ (५.२.११६) इनिः । ‘अव्ययानां भमात्रे टिलोपः' (वा. ६.४.१४४) इति टिलोपः । ‘अथाली स्याद्वृश्चिके भ्रमरे पुमान्’ (इति मेदिनी) ॥