उलपः

सुधाव्याख्या

वलति । वल संवरणे (भ्वा० आ० से०) । ‘विटपविष्टपविशिपोलपाः' (उ० ३.१४५) इति ‘वले सम्प्रसारणं कपश्च' । -उल्यते । उल: सौत्र आवरणार्थो दाहार्थो वा । ‘कपश्चाक्रमवर्णस्य इति कपो वा । 'विटपादयः' इत्यपः - इति स्वामिमुकुटौ । तन्न । तादृशसूत्राभावात् । ‘उलपस्तु गुल्मिनीतृणभेदयोः' इति हैमः । इति त्रीणि शाखादिभिर्विस्तृतवल्ल्याः ।