वीरुध्

सुधाव्याख्या

लतेति । शाखापत्रसञ्चयः प्रतानः । सोऽस्त्यस्याः । सा प्रतानिनी । ईदृशी लता वीरुदादिशब्दत्रयवाच्या ॥ विरुणद्धि । ‘रुधिर् आवरणे (रु० उ० अ०) । क्विप् (३.२.१७८) । ‘अन्येषामपि-' (६.३.१३७) इति दीर्घः । -‘नहिवृति-' (६.३.११६) इति दीर्घः । न्यङ्क्वादित्वात् (७.३.५३) कुत्वम् इति स्वाम्युक्तिश्चिन्त्या । रुधेस्तत्रादर्शनात् कुत्वादर्शनाच्च । ‘वीरुल्लताविटपयो: स्त्रियाम् ॥