वल्ली

सुधाव्याख्या

वल्लीति । वल्लते । ‘वल वल्ल संवरणे' (भ्वा० आ० से०) । ‘सर्वधातुभ्य इन्’ (उ० ४.११८) । (‘कृदिकारात्-' (ग० ४.१.४५) इति वा ङीष्) । -पचाद्यच् (३.१.१३४) । गौरादित्वात् (४.१.४१) ङीष् इति मुकुटोक्तिश्चिन्त्या । 'वल्ली स्यादजमोदायां लतायां कुसुमान्तरे' इति हैम: ॥ (वेल्ल (भ्वा० प० से०) धातोरिनि 'वेल्लिः' इत्यपि । अत एव) । ‘वल्ली तु वेल्लिः सरणौ' इति वाचस्पतिः ।