स्तम्बः

सुधाव्याख्या

अप्रकाण्ड इति । न प्रकाण्डोऽस्य ॥ तिष्ठति। ‘ष्ठा गतिनिवृत्तौ (भ्वा० प० से०) । ‘स्थ: स्तोऽम्बजबकौ’ (उ० ४.९६) । 'स्तम्बो गुल्मे तृणादीनामकाण्डद्रुगुच्छयो: ।


प्रक्रिया

धातुः - ष्ठा गतिनिवृत्तौ


स्था - धात्वादेः षः सः 6.1.64, निमित्तापाये नैमित्तिकस्याप्यपायः ।
स्त् + अम्बच् - स्थः स्तोऽम्बजबकौ (४.९६) । उणादिसूत्रम् ।
स्त् + अम्ब - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
स्तम्ब + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
स्तम्ब + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्तम्ब + रु - ससजुषो रुः 8.2.66
स्तम्ब + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्तम्बः - खरवसानयोर्विसर्जनीयः 8.3.15