व्रततिः

सुधाव्याख्या

प्रतनोति । ‘तनु विस्तारे' (त० उ० से०) । ‘क्तिच्क्तौ च संज्ञायाम् (३.३.१७४) । पृषोदरादित्वात् (६.३.१०९) पस्य वो वा । ‘प्रततिव्रततिस्तथा' इति हलायुधः ॥ यद्वा व्रतमिव करोति । व्रतशब्दात् ‘तत्करोति-' (वा० ३.१.२६) इति ण्यन्तादाहुलकादतिः । व्रततिस्तु प्रतानिन्यां विस्तारेऽपि' इति हैमः ॥