प्रियकः

सुधाव्याख्या

प्रीणाति । ‘प्रीञ् तर्पणे (क्र्या० उ० अ०) । ‘क्युन् शिल्पिसंज्ञयो: (उ० २.३२) । ‘प्रियकः पीतसारके । नीपे चित्रमृगे चालौ प्रियंगौ कुङ्कुमेऽपि च ॥


प्रक्रिया

धातुः - प्रीञ् तर्पणे कान्तौ च


प्री - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
प्री + क्वुन् - क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि (२.३२) । उणादिसूत्रम् ।
प्री + वु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
प्री + अक - युवोरनाकौ 7.1.1
प्र् + इयङ् + अक - अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6.4.77
प्रिय् + अक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
प्रियक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
प्रियक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्रियक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रियक + रु - ससजुषो रुः 8.2.66
प्रियक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रियकः - खरवसानयोर्विसर्जनीयः 8.3.15