अरुष्करः

सुधाव्याख्या

वीरेति । वीर इव वृक्षो दु:स्पर्शत्वात् । वीरवृक्षस्तु भल्लातकार्जुनद्रुमयोः पुमान्' ॥


प्रक्रिया

धातुः - डुकृञ् करणे


कृ - हलन्त्यम् 1.3.3, आदिर्ञिटुडवः 1.3.5, तस्य लोपः 1.3.9
अरुस् + अम् + कृ + ट - दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिम्लिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तत्धनुररुष्षु 3.2.21, उपपदमतिङ् 2.2.19
अरुस् + कृ + ट - सुपो धातुप्रातिपदिकयोः 2.4.71
अरुस् + कृ + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
अरुस् + कर् + अ - सार्वधातुकार्धधातुकयोः 7.3.84
अरुष्कर - नित्यं समासेऽनुत्तरपदस्थस्य 8.3.45
अरुष्कर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अरुष्कर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अरुष्कर + रु - ससजुषो रुः 8.2.66
अरुष्कर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अरुष्करः - खरवसानयोर्विसर्जनीयः 8.3.15