कदम्बः

सुधाव्याख्या

कदति । ‘कद' सौत्रो हिंसार्थः । ‘कृकदिकडिकटिभ्योऽम्बच्’ (उ० ४.८२) । ‘कदेर्णिद्वा' इत्यम्बच् – इति मुकुटः । तन्न । तादृशसूत्राभावात् ॥ ‘कदम्बं निकुरम्बे स्यान्नीपसर्षपयोः पुमान्' ॥