भल्लातकी

सुधाव्याख्या

भल्ल इवातति । ‘अत सातत्यगमने (भ्वा० प० से०) । क्वुन् (उ० २.३२) । ‘जाते:' (४.१.५३) इति ङीष् ॥


प्रक्रिया

धातुः - अतँ सातत्यगमने


अत् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भल्ल + सु + अत् + क्वुन् - शिल्पिसंज्ञयोरपूर्वस्यापि (२.३२) । उणादिसूत्रम् ।, उपपदमतिङ् 2.2.19
भल्ल + अत् + क्वुन् - सुपो धातुप्रातिपदिकयोः 2.4.71
भल्ल + अत् + वु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
भल्ल + अत् + अक - युवोरनाकौ 7.1.1
भल्लातक - अकः सवर्णे दीर्घः 6.1.101
भल्लातक + ङीष् - अस्वाङ्गपूर्वपदाद्वा 4.1.53
भल्लातक + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
भल्लातक् + ई - यस्येति च 6.4.148
भल्लातकी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
भल्लातकी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भल्लातकी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68