बलाहकः

सुधाव्याख्या

वारिवाहकः । पृषोदरादिः (६.३.१०९) । बलाकाभिर्हायते गम्यते । ‘ओहाङ् गतौ’ (जु० आ० अ०) । कर्मणि क्वुन् (उ० २.३७) । पृषोदरादिः (६.३.१०९) । बलेन हीयते । आहायते वा । क्वुन् (उ० २.३७) (‘बलाहको गिरौ मेघे दैत्यनागप्रभेदयोः’)।


प्रक्रिया

धातुः - ओँहाङ् गतौ


हा - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
बलाका + भिस् + हा + क्वुन् - उपपदमतिङ् 2.2.19, बहुलमन्यत्रापि (उ० २.३७) । उणादिसूत्रम् ।
बलाका + हा + क्वुन् - सुपो धातुप्रातिपदिकयोः 2.4.71
बलाका + हा + वु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
बलाका + ह् + वु - आतो लोप इटि च 6.4.64
बलाका + ह् + अक - युवोरनाकौ 7.1.1
बलाहक - पृषोदरादीनि यथोपदिष्टम् 6.3.109
बलाहक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
बलाहक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
बलाहक + रु - ससजुषो रुः 8.2.66
बलाहक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
बलाहकः - खरवसानयोर्विसर्जनीयः 8.3.15