स्तनयित्नुः

सुधाव्याख्या

स्तनयति । ‘स्तनगदी देवशब्दे’ (चु० उ० से०) चुरादावदन्तः । 'स्तनिहृषि-(उ० ३.२९) इतीत्नुच् । अयामन्ता–’ (६.४.५५) इति णेरय् ।।


प्रक्रिया

धातुः - स्तन देवशब्दे


स्तन + णिच् - सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25
स्तन + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
स्तन + अय् - अयामन्ताल्वाय्येत्न्विष्णुषु 6.4.55
स्तन + अय् + इत्नुच् - स्तनिह्रुषिपुपिगदिमदिभ्यो णेरित्नुच् (३.२९) । उणादिसूत्रम् ।
स्तनयित्नु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
स्तनयित्नु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
स्तनयित्नु + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्तनयित्नु + रु - ससजुषो रुः 8.2.66
स्तनयित्नु + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्तनयित्नुः - खरवसानयोर्विसर्जनीयः 8.3.15