अभ्रम्

सुधाव्याख्या

अभ्रमित्यादि । अपो बिभर्ति । मूलविभुजादित्वात् (३.२.५) कः । अभ्रति । ‘अभ्र गतौ (भ्वा० प० से०) । अच् (३.१.१३४) । न भ्रश्यन्त्यापो यस्मात् । 'भ्रंशु अध: पतने' । अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति ड:-इति वा । ‘अभ्रं मेघे च गगने धातुभेदे च काञ्चने' ।