चक्रवालम्

सुधाव्याख्या

चक्रेति । चक्राकारेण वलते । ‘वल संवरणे' (भ्वा० आ० से०) । अच् (३.१.१३४) ‘अन्येषामपि-' (६.३.१३७) दीर्घः । यद्वा-भावे घञि वालः । चक्रमिव वालो यस्य यद्वा-चक्राकारेण वाडते । ‘वाडृ आप्लाव्ये' (भ्वा० आ० से०) अच् (३.१.१३४) चक्रवाडम् । डलयोरेकत्वस्मरणाच्चक्रवालम् । (‘चक्रवालोऽद्रिभेदे स्याच्चक्रवालं तु मण्डले’ ।