गुरुः

सुधाव्याख्या

गृणाति उपदिशति । 'गॄ शब्दे’ (क्र्या० प० से०) । ‘कृग्रोरुच्च' (उ० १.२४) इति कुः उश्चान्तादेशः (रपरः) । 'गुरुर्महत्याङ्गिरसे पित्रादौ धर्मदेशके । अलघौ दुर्जरे चापि’ इति हैमः ।