चित्रशिखण्डिजः

सुधाव्याख्या

'ऋषयः सप्तधीमद्भिः स्मृताश्चित्रशिखण्डिनः’ इति हारावली । तदन्तर्गतादङ्गिरसो जातत्वाच्चित्रशिखण्डिनो जातः । ‘पञ्चम्याम्- (३.२.९८) इति ड: ।


प्रक्रिया

धातुः - जनीँ प्रादुर्भावे


जन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चित्रशिखण्डिन् + ङस् + जन् + ड - पञ्चम्यामजातौ 3.2.98
चित्रशिखण्डिन् + जन् + ड - सुपो धातुप्रातिपदिकयोः 2.4.71
चित्रशिखण्डिन् + जन् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
चित्रशिखण्डिन् + ज् + अ - डित्वसामर्थ्यादभस्यापि टेर्लोपः।
चित्रशिखण्डिज - नलोपः प्रातिपदिकान्तस्य 8.2.7
चित्रशिखण्डिज + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
चित्रशिखण्डिज + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चित्रशिखण्डिज + रु - ससजुषो रुः 8.2.66
चित्रशिखण्डिज + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चित्रशिखण्डिजः - खरवसानयोर्विसर्जनीयः 8.3.15