वाचस्पतिः

सुधाव्याख्या

वाचस्पतिरित्यत्र ‘षष्ठ्याः पतिपुत्र-'(८.३.५३) इति सत्वविधानात्षष्ठ्या अलुक् । लुक्पक्षे ‘वाक्पतिः’ अपि ।


प्रक्रिया

वाच् + ङस् + पति + सु - षष्ठी 2.2.8
वाच् + ङस् + पति - सुपो धातुप्रातिपदिकयोः 2.4.71
वाच् + ङस् + पति - ‘षष्ठ्याः पतिपुत्र-' (८.३.५३) इति सत्वविधानात्षष्ठ्या अलुक् ।
वाच् + अस् + पति - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
वाचरु + पति - ससजुषो रुः 8.2.66
वाचर् + पति - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वाचः + पति - खरवसानयोर्विसर्जनीयः 8.3.15
वाचस्पति - षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु 8.3.53
वाचस्पति + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वाचस्पति + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वाचस्पति + रु - ससजुषो रुः 8.2.66
वाचस्पति + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वाचस्पतिः - खरवसानयोर्विसर्जनीयः 8.3.15