आङ्गिरसः

सुधाव्याख्या

‘अगि गतौ” (भ्वा० प० से०) । 'अङ्गिराः (उ० ४.२३६) इत्यसुन्नन्तो निपातितः । अङ्गिरसोऽपत्यम् । ऋष्यन्धक–’ (४.१.११४) इत्यण् । बहुत्वे 'अत्रिभृगु-’ ( २.४.६५) इति लुक् । आङ्गिरसः आङ्गिरसौ, अङ्गिरसः ।


प्रक्रिया

धातुः - अगिँ गतौ


अग् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अ + नुम् + ग् - इदितो नुम् धातोः 7.1.58
अन्ग् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अंग् - नश्चापदान्तस्य झलि 8.3.24
अङ्ग् - अनुस्वारस्य ययि परसवर्णः 8.4.58
अङ्ग् + इ + रुट् + असि - अङ्गतेरसिरिरुडागमश्च (४.२३६) । उणादिसूत्रम् ।
अङ्ग् + इ + र् + अस् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अङ्गिरस् + ङस् + अण् - ऋष्यन्धकवृष्णिकुरुभ्यश्च 4.1.114
अङ्गिरस् + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
अङ्गिरस् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
आङ्गिरस् + अ - तद्धितेष्वचामादेः 7.2.117
आङ्गिरस + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
आङ्गिरस + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आङ्गिरस + रु - ससजुषो रुः 8.2.66
आङ्गिरस + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आङ्गिरसः - खरवसानयोर्विसर्जनीयः 8.3.15