पल्वलम्

सुधाव्याख्या

पलति पल्यते वा । 'पल गतौ” (भ्वा० प० से०) । ‘सानसिपर्णासि-' (उ० ४.१०७) इति वलच् । ‘वेशन्तः पल्वलोऽस्त्री’ इति वाचस्पतिः ।


प्रक्रिया

धातुः - पलँ गतौ


पल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पल् + वलच् – सानसिवर्णसिपणसितण्डुलाङ्कुशचषालेल्वलपल्वलधिष्ण्यशल्याः (४.१०७) । उणादिसूत्रम् ।
पल् + वल - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पल्वल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पल्वल + अम् - अतोऽम् 7.1.24
पल्वलम् - अमि पूर्वः 6.1.107