वापी

सुधाव्याख्या

वापीति । उप्यते पद्माद्यस्याम् । ‘डुवपँ बीजतन्तुसंताने (भ्वा० उ० अ०) । 'वसिवपियजिराजि - (उ० ४.१२५) इतीञ् । ‘कृदिकारात्-’ (ग० ४.१.४५) इति वा ङीष् । वाप्यां वापिरपि स्मृता' इति द्विरूपकोषः ।


प्रक्रिया

धातुः - डुवपँ बीजसन्ताने गर्भाधाने छेदने बीजतन्तुसन्ताने मुण्डबीजोप्त्योः वपने घर्षणे तन्तुनिर्माणे च


वप् - आदिर्ञिटुडवः 1.3.5, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वप् + इञ् – वसिवपियजिराजिव्रजिसदिहनिनाशिवाशिवारिभ्य इञ् (४.१२५) । उणादिसूत्रम् ।
वप् + इ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वाप् + इ - अत उपधायाः 7.2.116
वापि + ङीष् – कृदिकारादक्तिनः (4.1.45) । गणसूत्रम् ।
वापि + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, , तस्य लोपः 1.3.9
वाप् + ई - यस्येति च 6.4.148
वापी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वापी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वापी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68