कासारः

सुधाव्याख्या

कासार इति । कासते । ‘कासृ शब्दे’ (भ्वा० आ० से०) । ‘तुषारादयश्च' (उ० ३.१३९) इत्यारन् । यद्वा ईषत् सारोऽस्य । ‘ईषदर्थे च' (६.३.१०५) इति को: कादेशः । कासोऽस्यास्तीति वा । अर्शआद्यच् । कासमृच्छति । 'ऋ गतौ (भ्वा० प० से०) । ‘कर्मण्यण्' (३.२.१) इति वा ॥