तडागः

सुधाव्याख्या

तड्यते । 'तड आघाते (चु० प० से०) । ‘तडागादयश्च' इति निपातितः । तडागस्तु जलाधारविशेषे यन्त्रकूपके' इति मेदिनी । पिनाकादित्वात् (उ० ४.१५) 'तडाक:’ इति कश्चित् ।* ॥ तटम् अकति अगति वा । ‘अक अग कुटिलायां गतौ’ (भ्वा० प० से०) । 'कर्मण्यण्' (३.२.१) । (तटाकः, तटागः) इत्येके । द्वे सपद्मागाधजलाशयस्य ।