सरसी

सुधाव्याख्या

स्रियते । सृ गतौ (भ्वा० प० से०) । कर्मण्यसुन् (उ० ४.१८९) । (‘सरो नीरतडागयो:’) ॥ तत एव महत्त्वे गौरादित्वात् (४.१.४१) ङीष् । (‘सरसी विश्वकासारे') ॥ त्रीणि कृत्रिमपद्माकरस्य । पञ्चापि सरोमात्रस्येत्यन्ये ।