शङ्कनकाः

सुधाव्याख्या

शङ्कन्ते । 'शकि शङ्कायाम्' (भ्वा० आ० से०) । कर्तरि 'अनुदात्तेतश्च हलादेः (३.२.१४९) इति युच् । ‘संज्ञायां कन्' (५.३.७५) । शङ्खस्य नखा इव (शङ्खनखाः) इति तु मुकुटः । शं खनन्ति । ‘बहुलमन्यत्रापि’ (उ० २.७८) इति युच् ॥ ल्युट् । वा स्वार्थे कन् (५.३.७५) । शङ्खनकाः) इत्यन्ये । द्वे सूक्ष्मशख़ानाम् ।


प्रक्रिया

धातुः - शकिँ शङ्कायाम्


शक् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
श + नुम् + क् - इदितो नुम् धातोः 7.1.58
श + न् + क् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शंक् - नश्चापदान्तस्य झलि 8.3.24
शङ्क् - अनुस्वारस्य ययि परसवर्णः 8.4.58
शङ्क् + युच् - अनुदात्तेतश्च हलादेः 3.2.149
शङ्क् + यु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
शङ्क् + अन - युवोरनाकौ 7.1.1
शङ्कन + कन् - संज्ञायां कन् 4.3.147
शङ्कन + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
शङ्कनक + जस् - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शङ्कनक + अस् - चुटू 1.3.7, तस्य लोपः 1.3.9
शङ्कनकास् - प्रथमयोः पूर्वसवर्णः 6.1.102
शङ्कनकारु - ससजुषो रुः 8.2.66
शङ्कनकार् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शङ्कनकाः - खरवसानयोर्विसर्जनीयः 8.3.15