शङ्खः

सुधाव्याख्या

शङ्ख इति । शं खनति जनयति । 'खनु अवदारणे' (भ्वा० उ० से०) । ‘अन्येभ्योऽपि’ (वा० ३.२.१०१) इति ङः । शं खम् अस्य – इति वा । शाम्यत्यलक्ष्मीं वा । ‘शमु उपशमे (दि० प० से०) । अन्तर्भावितण्यर्थः । ‘शमेः खः' (उ० १.१.१०२) । 'शङ्खः कम्बौ न योषित्, ना भाला स्थिनि धिभिन्नखे ।