गुह्यकः

सुधाव्याख्या

गूहति निधिं रक्षति । ‘गुहू संवरणे' (भ्वा० उ० से०) ‘ण्वुल्' (३.१.१३३) । पृषोदरादित्वाद्यगागमः । तथा च व्याडि:-‘निधिं रक्षन्ति ये यक्षास्ते स्युर्गुह्यकसंज्ञकाः' इति । यद्वा गुह्यं कुत्सितं कायति । ‘कै शब्दे' (भ्वा० प० अ०) ‘आतोऽनुपसर्गे कः' (३.२.३) गुह्यं गोपनीयं कं सुखं यस्येति वा । अनयो: पक्षयो; ‘शंसिदुहिगुहिभ्यो वा' (वा० ३.१.१०९) इति काशिकाकारवचनाद्गुहे: क्यप् । तत्र दुहिगुह्योर्ग्रहणं निर्मूलमिति भट्टोजीदीक्षिताः । तन्मते ण्यति संज्ञापूर्वकत्वान्न गुणः ॥