भूतः

सुधाव्याख्या

भूतिरस्यास्ति । अर्शआद्यच् (५.२.१२७) । भूतः । (‘भूतं क्ष्मादौ पिशाचादौ जन्तौ क्लीबं त्रिषूचिते ।) प्राप्ते वित्ते समे सत्ये देवयोन्यन्तरेषु ना’) । भवति इष्टं प्राप्नोति । ‘भू प्राप्तौ' (चु० आ० से ०) । ‘गत्यर्थाकर्मक-' (३.४.७२) इति क्त: - इति मुकुटः । तन्न । प्राप्त्यर्थस्यागत्यर्थाकर्मकत्वात् वर्तमानविग्रहायोगाच्च ॥ अमी विद्याधरादयो दश देवा योनिरेषां ते देवयोनयः । देवांशका इत्यर्थः । यत्तु–‘देवानामिव योनिरुत्पत्तिकारणमविभाव्यमेषाम्' इति मुकुटो व्याख्यत् । तन्न । व्यधिकरणबहुव्रीहिप्रसङ्गात् । श्लोकोपक्रमस्थग्रन्थविरोधाच्च । दश देवयोनयः ॥