विद्याधरः

सुधाव्याख्या

विद्येति-‘विद्याधरोऽप्सरो-' इति पाठः । भिन्नलिङ्गत्वादग्रेऽनभिधानादसमासः । विद्याया गुटिकाञ्जनादिविषयिण्या धरो धारकः । यत्तु–‘विद्यां धरति' इति मुकुट आह । तन्न । पचाद्यच: (३.१.१३४) अपवादत्वादणः (३.२.१) प्रसङ्गात् ॥