यक्षः

सुधाव्याख्या

यक्ष्यते पूज्यते । ‘यक्ष पूजायाम्' (चु० आ० से०) । ‘अकर्तरि च कारके संज्ञायाम्' (३.३.१९) इति कर्मणि घञ् । ‘यक्षो गुह्यकमात्रे च गुह्यकाधीश्वरेऽपि च' । इ: कामः, तस्येवाक्षिणी अस्येति वा, इरक्षिषु यस्येति वा । ‘बहुव्रीहौ सक्थ्यक्ष्णो:-' (५.४.४३) इति षच् ॥