क्ष्वेडः

सुधाव्याख्या

क्ष्वेड इति । क्ष्वेडते मोहयति । अच् (३.१.१३४) । क्ष्विद्यन्त्यनेन वा । 'ञिक्ष्विदा स्नेहनमोचनयो:’ ‘मोहनयो’ इत्येके (भ्वा० प० से०, दि० प०) । ‘हलश्च’ (३.३.१२१) इति घञ् । पृषोदरादिः (६.३.१०९) 'क्ष्वेडो ध्वनौ कर्णामये विषे । क्ष्वेडा वंशशलाकायां सिंहनादे च योषिति । लोहितार्कपर्ण फले घोषपुष्पे नपुंसकम् । दुरासदे च कुटिले वाच्यलिङ्गः प्रकीर्तितः' ।