कञ्चुकः

सुधाव्याख्या

समाविति । कञ्चते । ‘कचि दीप्तिबन्धनयोः' (भ्वा० आ० से०) । बाहुलकादुकन् । ‘कञ्चुको वारवाणे स्यान्निर्मोके कवचेऽपि च । वर्धापकगृहीताङ्गस्थितवस्त्रे च चोलके । कञ्चुक्यौषधिभेदे च' इति विश्वमेदिन्यौ ।