गरलम्

सुधाव्याख्या

गिरति जीवम् । ‘गृ निगरणे’ (तु० प० से०) । अच् (३.१.१३४) । गरं लाति । 'ला दाने' (अ० प० अ०) । कः (३.२.३) । भावपरत्वं गरशब्दस्य । गिरतेबहुलकादलच् वा । ‘गरलं पन्नगविषे तृणपूलकमानयोः’ इति हैमः ।