रन्ध्रम्

सुधाव्याख्या

रमणम् । सम्पदादि (३.३.१०८) । संज्ञापूर्वकत्वान्न दीर्घः । रमं क्रीडां धरति । मूलविभुजादिः (वा० ३.२.५) । रन्धयति । ‘रधहिंसासंराद्ध्योः' (दि० प० से०) । बाहुलकाद्रक् वा । 'रन्थं तु दूषणे च्छिद्रे” इति विश्वमेदिन्यौ ।


प्रक्रिया

धातुः - रमुँ क्रीडायाम् , धृञ् धारणे


रमुँ क्रीडायाम्
रम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
रम् + क्विप् - संपदादिभ्यः क्विप् (3.3.108) । वार्तिकम् ।
रम् + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
रम् - वेरपृक्तस्य 6.1.67
धृञ् धारणे
धृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
रम् + अम् + धृ + क – कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम् (3.2.5) । वार्तिकम्, उपपदमतिङ् 2.2.19
रम् + धृ + क - सुपो धातुप्रातिपदिकयोः 2.4.71
रम् + धृ + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
रम् + ध् + र् + अ - इको यणचि 6.1.77
रंध्र - नश्चापदान्तस्य झलि 8.3.24
रन्ध्र - अनुस्वारस्य ययि परसवर्णः 8.4.58
रन्ध्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
रन्ध्र + अम् - अतोऽम् 7.1.24
रन्ध्रम् - अमि पूर्वः 6.1.107