गर्तः

सुधाव्याख्या

गर्तेति। गिरति ‘गृ निगरणे' (तु० प० से०) । 'हसिमृग (उ० ३.८६) इति तन् । स्त्रियां टाप् (४.१.५) ‘शरट कृसर-गर्त-श्रृङ्गाः’ इति स्त्रीपुंसप्रकरणे रभसात् । 'गर्तोऽवटे कुकुन्दरे । त्रिगर्तांशे’ इति हैमः ।