अवटः

सुधाव्याख्या

अवन्त्यस्मात् । ‘अव रक्षणादौ (भ्वा० प० से०) । ‘शकादिभ्योऽटन्' (उ० ४.८१) । इदन्तोऽपि । 'दर्भेऽपि पवित्रमवटिरवटेऽपि’ इति हलायुधः । अवटः कूपबिलयोर्गर्ते कुहकजीविनि’ इति हैमः ।