निर्व्यथनम्

सुधाव्याख्या

‘व्यथ भयचलनयोः’ (भ्वा० आ० से०) । भावे ल्युट् (३.३.११५) । निश्चयेन व्यथनं भयं चलनं वा यत्र । यत्तु-अधिकरणे ल्युट् (३.३.११६) इति मुकुट आह । तन्न । व्यथनमिति भावप्रत्यये बहुव्रीहिणा गतार्थत्वात् ।