रौद्रम्

सुधाव्याख्या

रौद्रमिति । रुद्रस्येदम् । अण् (४.३.१२०) । यत्तु रुद्रो देवतास्य इति मुकुटेनोक्तम् । तन्न । मन्त्रहविः स्वामिन्या एव देवतात्वात् । ‘रौद्रो भीष्मे रसे तीव्रे रौद्री गौर्याम्' इति हैमः ॥