घोरम्

सुधाव्याख्या

घोरयति । ‘घुर भीमार्थशब्दयोः’ (तु० प० से०) । ण्यन्तात् (३.१.२६) अच् (३.१.१३४) । हन्ति वा । 'हन्तेर्घुरच्च' (उ० ५.६४) इत्यच् प्रत्ययो घुरादेशश्च । ‘घोरो हरे दारुणे च' इति हैमः ॥