प्रतिभयम्

सुधाव्याख्या

प्रतिगतं भयेन । प्रादिसमासः (वा० २.२.१८) । प्रति गतं भयमस्मिन् । 'प्रादिभ्यो धातुजस्य-' (वा० २.२.२४) इति वा । ‘प्रतिभयं भये भीष्मे’ इति हैमः ॥ नव भयानकरसस्य । भेदेन कीर्तनं त्वेषां धर्ममात्रपरत्वात् । भैरवादयस्तु धर्मे धर्मिणि च वर्तन्ते इति भेदः ।


प्रक्रिया

प्रति + भय + सु - प्रादयो गताद्यर्थे प्रथमया (2.2.18) । वार्तिकम् ।
प्रति + भय - सुपो धातुप्रातिपदिकयोः 2.4.71
प्रतिभय + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्रतिभय + अम् - अतोऽम् 7.1.24
प्रतिभयम् - अमि पूर्वः 6.1.107