हेमन्तः

सुधाव्याख्या

हेमन्त इति । हन्ति । 'हन्तेर्मुट् हि च' (उ० ३.१२९) इति झच् हिरादेशो मुडागमः । गुणः (७.३.८४) हेमा अपि । ‘सर्वत्राण् च-'(४.३.२२) इति सूत्रे यद्भाष्यम् 'हेमन्तस्य तलोपवचनानर्थक्यं हेम्नः प्रकृत्यन्यतरस्य सत्त्वात्' इति । हिनोति वर्धयति बलम् । ‘हि गतौ वृद्धौ च' (स्वा० प० अ०) । अन्तर्भावितण्यर्थात् अन्येभ्योऽपि’ (३.२.७५) इति मनिन् ।