शिशिरः

सुधाव्याख्या

'शश प्लुतगतौ’ (भ्वा० प० से०) । अजिरशिशिर- (उ० १.५३) इति किरजन्तो निपातितः । शशन्ति धावन्ति यस्मिन्पथिकाः । ‘शिशिरः स्यादृतोर्भेदे तुषारे शीतलेऽन्यवत्' इति विश्वः ।