सुरभिः

सुधाव्याख्या

सुष्टु रभन्ते रभसयुक्ता भवन्त्यत्र । ‘रभ राभस्ये' (भ्वा आ० अ०) । इन् (उ० ४.११८) 'सुरभिर्हेम्नि चम्पके जातीफले मातृभेदे रम्ये चैत्रवसन्तयोः । सुगन्धौ गवि शल्लक्याम्’ इति हैमः ।