ग्रीष्मः

सुधाव्याख्या

ग्रीष्म इति । ग्रसते रसान् । ‘ग्रसु अदने’ (भ्वा० आ० अ०) । आतो मक्, धातोर्ग्रीभावः षुगागमश्च ‘ग्रीष्मः (१.१४९) इत्युणादिसूत्रेण निपातितः । ‘ग्रीष्म ऊष्मर्तुभेदयो:’ ॥